सप्तचत्वारिंशत्तमं क्षेत्रम् (१३)

पुन: प्रकारान्तरम्।




त्रयाणाम भुजानां चतुर्भुजानि त्रिभुजे पतन्ति। यदा भुजद्वयं समानं स्यात् तदा भुजद्वयस्य चतुर्भुजे समाने स्यातमिष्टं च प्रकटीभविष्यति। यदा चैको भुजो न्यूनाधिकोऽस्ति यथा अबं अधिकमस्ति तदा पूर्वोक्तप्रकारेण चतुर्भुजं कार्यम्। जकरेखा लचिन्हपर्यन्तं वरद्धनीया। तकरेखा मचिन्हपर्यन्तं च कार्या। दचिन्हात् दनलम्ब: अबरेखायां कार्य:। हचिन्हात् हसलम्ब: दनरेखायां कार्य:। जअरेखा च वरद्धनीया यथा हसरेखायां गचिन्हे लग्ना स्यात्।

तदा जदचतुर्भुजस्य चत्वारि त्रिभुजानि समानि उत्पत्स्यन्ते। तानि च पूर्वोक्तप्रकारेण समानि स्यु:। नगचतुर्भुजं शेषं स्यात् । एतच्च अबअजभुजयोरन्तरवर्ग एव।

पुनस्तझरेखा कार्या। तदा अलक्षेत्रस्य अमक्षेत्रस्य च चत्वारि त्रिभुजानि भविष्यन्ति।पूर्वोक्तचतुर्णां त्रिभुजानां समानि स्यु:। शेषं कवचतुर्भुजं नगचतुर्भुजस्य समं स्यात्। तदा जदचतुर्भुजं अबचतुर्भुजस्य अकचतुर्भुजस्य समानमस्तीति निश्र्चितम्। इदमेवेष्टम्।।

Hits: 432
X

Right Click

No right click