अथ षट्त्रिंशत्तमं क्षेत्रम् ।



तत्र द्वे चतुर्भुजक्षेत्रे समानान्तरभुजे एकदिशि द्वयो: समानान्तररेखयोर्मध्ये समानभूमिके यदा भवतस्तदा ते द्वे चतुर्भुजक्षेत्रे समाने भवत: ।
यथा अबजदचतुर्भुजम हझवतचतुर्भुजं च अतबवरेखयोर्मध्ये बजझवसमानभुजोपरि भवतस्ते च समाने एतेव भवत: । अस्योपपत्ति: ।
बहरेखाजतरेखा च कार्या । एते रेखे समाने समानान्तरे च भविष्यत: / कथम् । बजरेखाहतरेखे च समाने समानान्तरे च स्त:। पुन: अबजदचतुर्भुजं हबजतचतुर्भुजं चैते समाने स्त:। यत: अतरेखाबजरेखयो: समानान्तरयोर्मध्ये एकभुजोपरि तितिष्ठत:। पुनर्हझवतचतुर्भुजं हबजतचतुर्भुजं चैते समाने जाते ।। इदमेवास्माकमभीष्टम् ।।

Hits: 202
X

Right Click

No right click