अथ पञ्चत्रिंशत्तमं क्षेत्रम् ।
तत्र चतुर्भुजक्षेत्रद्वयं समानान्तरभुजमेकस्यां भमावेकदिशि व भवति द्वयो: समानान्तररेखयोर्मध्ये च भवति त्श्र्चतुर्भुजद्वयं समानं भवति ।



यथा अबजदचतुर्भुजं हबजझचतुर्भुजं चैते द्वे चतुर्भुजे अझरेखाबजरेखयोर्मध्ये बजरेखोपरि स्त: ते च समाने स्त: ।

अत्रोपपत्ति:।


अदभुज: हझभुजश्र्च बजभुजेन समानोऽस्ति तदा अदभुज: हझभुजश्र्चैतौ समानौ जातौ । पुनर्दहरेका अदरेखायां झहरेखायां ष युक्ता कार्या । तदा हअबत्रिभुजे झदजत्रिभुजे अहभुजझदभुजौ च समानौ । पुन: अबभुजजदभुजौ समानौ । पुनर्बेहकोणजदझकोणौ समानौ । तदैते द्वे त्रिभुजे समाने जाते । पुनरनयोस्त्रिभुजयो: दवहत्रिभुजं दुरीक्रियते वबजत्रिभुजम च योज्यते तदा अबजदचतुर्भुजं हबजझचतुर्भुजं चैते समाने भविष्यत: ।
इदमेवास्माकमिष्टम् ।।



अथाऽस्मिन्क्षेत्रे हचिन्हं अदाद्बहि: पतिष्यति तदा बहजदौ संपातं लतिष्यत: । अथवा हचिन्हं दचिन्हे पतिष्यति । अबअदयोर्मध्ये वा पतिष्यति । अनयो: प्रकारान्तरकृतक्षेत्रयो: प्रथमत्रिभुजे लघुत्रिभुजदूरीकरणं नास्ति त्रिभुजयोग: कर्त्तव्योऽस्ति । द्वितीयक्षेत्रे चतुर्भुजम युक्तं कार्यमेताबान् विशेष: ।।

Hits: 204
X

Right Click

No right click