अथ चतुर्स्त्रिंशत्तमं क्षेत्रम् ।
तत्र यस्य चतुर्भुजक्षेत्रस्य भुजा: समानान्तरा भवन्ति तस्य परस्परसन्मुखं भुजद्वयं समानं भवति तत्कर्णश्र्च क्षेत्रस्य समानं भागद्वयं करोति ।
यथा अबजदचतुर्भुजक्षेत्रस्य बदकर्न: कल्पित: ।

अत्रोपपत्ति:।
अदबकोणो जबदकोणेन सम: । पुन: अबदकोण: जदबकोणेन सम: । एवं अदबत्रिभुजे जबदत्रिभुजे च अदबकोण: जबदकोणश्र्चैतौ समानौ स्त:। पुन: अबदकोण: जदबकोणस्चैतो समानौ जातौ । बदभुजश्र्चोभयोस्त्रिभुजयोरेक एव । तर्हि अदभुजबजभुजौ समानौ । अबभुजजदभुजौ च समानौ । पुन: अकोणजकोणौ समानौ जातौ ।
अदजकोणजबअकोणौ च समानौ । एवं द्वौ त्रिभुजौ समानौ । तदा बदकर्णेन चतुर्भुस्य भागद्वयं समानं लृतमित्युपपन्नम् ।।



प्रकारान्तरम् ।
यदि अबभुज: जदभुजेन समानौ न स्यात् तर्हि जहभुजेन समान: स्यात् । तत्र अहरेका कार्या । एवं अहरेका बजरेखाया: सनानान्तरा भविष्यति । पुनर्बजरेखा अदरेखाया: समानान्तरास्ति । तदा अहरेखा अदरेखा समानान्तरा जाता । इदं बाधितम् ।

अथानेन प्रकारेण अदरेका बजरेखाया: समाना भवति ।

यदि बअदकोण: बजदकोणेन समानो न भवति तदा बअहकोणो बजदकोणेन समान: स्यात् । तत्र अजरेखा कार्या । तदा बअजकोणहजअकोणौ समानौ । तदा जअहकोण: अजबकोणेन समानो जात: । जअदकोण: अजबकोणेन समानोऽस्ति । इदमप्यनुपपन्नम् ।। एवं बकोणो दकोणेन समानौऽस्ति । पुन: अदजत्रिभुजं अबजत्रिभुजेन समानम् । इदमेवास्माकमिष्टम् ।।

Hits: 221
X

Right Click

No right click