अथैकोनत्रिंशत्तमं क्षेत्रम् ।


समानान्तररेकयोर्यदि तृतीया रेखा संपातं करोति तत्रैककोणोन्तर्गतोऽभीष्टदिश्युत्पन्नो द्वितीयरेखान्तर्गतकोणश्र्च द्वितीयदिक्क: एतौ समानौ भवत: । एवं बहिर्गतकोणो द्वितीयरेकाया अन्तर्गतकोणेन समानो भवति । एवमेकदिक्कमन्तर्गतकोणद्वयं द्वयो: समकोणयो: समानं भवति ।




यथा अबरेखायां जदरेखायां हझवरेखया संपात: कृतोऽस्ति । तत्र अझवकोणदवझकोणश्र्चैतौ समौ कोणौ भविष्यत: । अथ यदि समानौ न भविष्यत: तदा अझवकोणोऽधिककोण: कल्पित:। पुन: बझवकोकोणस्य अझवकोणेन योग: कार्य: दवझकोणेनापि योग: कार्य:।


तत्र प्रथमयोग: द्वयो: समकोणयो: समान: द्वितीययोगादधिको भवति । तदा द्वितीययोग: द्वयो: समकोणयोर्न्यूनो जात: । यता अबजदरेकयो: हझवरेखया संपात: कृत: तत्र बझवकोणदवझकोणयोर्योगो द्वयो: समकोणयोर्न्यूनो जातस्तदा अबरखाजदरेखे बददिशि मिलिष्यत: ।


पुन: हझबकोणो हवदकोणेन समानोऽस्ति । कुत: । हझबकोणअझवकोणयो: समानत्यात् ।
पुन: बझवकोणदवझकोणयोर्योगो द्वयो: समकोणयो: समानोऽस्ति । कुत: । बझवकोणअझवकोणयोगस्य द्वयो: समकोणयो: समानत्वात् । पुन: दवझकोणअझवकोणौ समानौ जातौ। इदमेवास्माकमिष्टम् ।।

Hits: 206
X

Right Click

No right click