अथैकादशं क्षेत्रं ।
तत्रैकरेखायामभिष्टचिन्हाल्लम्बो निष्कासनीयोऽस्ति । तद्यथा ।


अबरेखायां जचिन्हं दत्वा तस्माल्लम्बो निष्कासनियोऽस्ति । तद्यथा ।
अबरेखायाम द चिन्हं देयम् । जदतुल्यं जहम कार्यम् । दहरेखायां समत्रिभुजम दझहम कार्यम् । पुन: झजरेखा कार्या । इयमेव लम्बरूपा जाता ।
अत्रोपपत्ति: ।
दझजत्रिभुजस्य भुजत्रयम हझजस्य भुजै: समानमस्ति । झजदकोणझजहकोणौ जचिन्हस्य समानौ । तस्मात् जस्य द्वौ कोणौ समकोणौ जातौ । झजरेखा लम्बो जात: । तदेवमुपपन्नं चिन्हाल्लम्बकरणम् ।।
अथ प्रकारान्तरेण ।


तत्र अबरेखायाम अचिन्हाल्लम्बकरणं चिकीर्षितमस्ति । तत्र अब रेखायां जचिन्हं कार्यम् । पुन: जअसमानं जदं कार्यम् । जचिन्हात् जहलम्ब: कार्य: । दचिन्हात् दझलम्ब: कार्य: । अजहकोणस्य जवरेखया खण्डद्वयं समानं कार्यम् । पुन: जदझकोणस्य दहरेखया च खण्डद्वयम समानं कार्यम् । तदा जहरेखादहरेखयोर्योगे हचिन्हं जातम् । पुन: दहरेखातुल्या जवरेखा पृथक् कार्या । पुन: अवरेका व कार्या । इयं लम्बरूपा जाता ।
अत्रोपपत्ति: ।
अजवत्रिभजे अजभुज: जवभुज: अजवकोणश्र्च जदहत्रिभुजे जदभुजेन दहभुजेन जदहकोणेन समान: । वअजकोणश्र्च हजदकोणेन समानो जात: । पुन: हजद: समकोणोऽस्ति । वअजकोणोऽपि समकोण: । तत: अवरेखा लम्बो जात: । अयमेवाऽभीष्ट: ।।

Hits: 240
X

Right Click

No right click