अथ दशमं क्षेत्रम् ।
तत्र यद्रेखाया: समानं भागद्वयमपेक्षितं भवति ।


तदा तद्रेखोपरि समत्रिभजं कार्यम् ।
यथा अबरेखोपरि समं अबजं त्रिभुजं कृतमस्ति । पुनस्तत्र जकोणस्य जदरेखया समानं भागद्वयं कृतं तदा जदरेखा अबरेखाया अपि समानं भागद्वयम करिष्यति ।
अत्रोपपत्ति: ।
अदजत्रिभुजे अजभुज: जदभुज: अजदकोणश्र्च दजबत्रिभुजस्थेन बजभुजेन जदभुजेन बजदकोणेन च समान: । तस्मात् अदं बदं द्वयमपि समानम् । तदेवमुपपन्नं रेखाया: समानं भागद्वयकरणम् ।।

Hits: 207
X

Right Click

No right click