अथाष्टमं क्षेत्रम् ।
यस्य त्रिभुजस्य भुजत्रयमन्यत्रिभुजस्य भुजै: समानं भवति तदा तस्य कोणत्रयमपि अन्यत्रिभुजकोणैरवश्यं समानं भविष्यति ।
तत्रैकं त्रिभुजं अबजं द्वितीयं दहझं च कल्पितम् । अत्र अबभुज: दहभुजसमान: अजभुजस्तु दझभुजेन समान: बजभुज: हझेन च समान: कल्पित: ।


यदा भुजत्रयं समानं जातं तदा अकोण: दकोणेन समान: बकोणस्तु हकोणेन समान: जकोणो झकोणेन समानो भविष्यति । कुत: ।
बजभुजं हझभुजे स्थाप्यते क्षेत्रं क्षेत्रे च स्थाप्यते तदा शेषौ अबअजौ भुजौ दहदझभुजयो: स्थास्यत: । यदि न स्थास्यतस्तदा भिन्नौ तिष्ठत: । यथा वहवझौ कल्पितौ ।
तत्रेयमनुपपत्ति: ।
दहदझरेखे हझरेखोभयप्रान्ताभ्यां नि:सृते दचिन्हे मिलिते वहबझरेखे पूर्वरेखासमाने प्रान्ताभ्यां नि:सृते वचिन्हे मिलिते । इदमनुपपन्नम् । इदं सप्तमक्षेत्रे प्रतिपादितमस्ति । तस्माद्त्रिभुजं त्रिभजोपरि स्थास्यत्येव । कोणा अपि कोणसमाना भवन्त्येव । तदेवमुपपन्नं यथोक्तम् ।।

Hits: 231
X

Right Click

No right click