अथ सप्तमं क्षेत्रम् ।
तत्रैकरेखोभयपार्श्र्वयोरनि;सृतम रेखाद्वयं यत्र मिलितम तच्चिन्हादन्यत्र तद्रेखाद्वयसंपातो न भवति कदापिति ।


अत्रोपपत्ति: ।
अबरेखाप्रान्ताभ्यांअजरेखा बजरेखा च नि:सृता जचिन्हे तयोर्योगो जात: । अथ यदि तत्समानमन्यद्रेखाद्वयमन्यत्र चिन्हे मिलति इति कल्प्यते तदा अजरेखातुल्या अदरेखा बजरेखातुल्या बदरेखा दचिन्हे मिलिता स्यात् । पुनर्दजरेखा निष्कास्या । तदा अजदकोण: अदजकोणेन समान: स्यात कुत: । अजअदयो: समानत्वात् । अथ च बजदकोण: अजदकोणादल्पो भविष्यति । पुन: अदजकोण: बदजकोणादल्पोऽस्ति । बजदकोण: बदजकोणादत्यन्तमल्प: स्यात् । इमौ समानौ स्त: । कुत: । बदबजभुजयो: साम्यात् । तस्मादिदमनुपपन्नं यत: समानौ कोणौ विषमौ जातौ । तदेवमुपपन्नं जचिन्हादन्यत्र भुजयोगो न भविष्यतीति ।।

Hits: 214
X

Right Click

No right click