अथ चतुर्थं क्षेत्रम् ।
यत्र त्रिभुजद्वयमस्ति तत्रैकत्रिभुजस्य भुजद्वयं तदन्तरगतकोणश्र्च द्वितीयत्रिभुजस्य भुजद्वयेन तदन्तर्गतकोणेन च समानं भवति तदा प्रथमत्रिभुजस्य शेषकोणद्वयं तृतीयभुजश्र्च द्वितीयत्रिभुजस्य कोणाभ्यां तृतीयभुजेन च समानं भवति ।


तत्र प्रथमत्रिभुजं अबजं द्वितीयत्रिभुजम दहझम अबं दहसमम अजं दझसमम च कल्पतं अकोणदकोणौ च समौ कल्पितौ । तदा बजं हझसमं भविष्यति बकोणहकोणौ च समानौ जकोणझकोणौ च समानौ भविष्यत: क्षेत्रं च क्षेतरसमानं भविष्यति ।
अत्रोपपत्ति: ।
तत्र अबरेखा दहरेखायां न्यस्ता अकोणो दकोणे न्यस्त: अजं दझोपरि च न्यस्तम् । एवं कृते बजं हझोपरि स्थास्यति यतो रेखाद्वयं सरलम् । बजकोणौ हझकोणयो: स्थास्यतस्तदा क्षेत्रं क्षेत्रसमानं भविष्यति ।।

Hits: 244
X

Right Click

No right click