यस्य कोणचतुष्ट्यं विषमं भुजचतुष्ट्यं च विषमं तद् विषमकोणविषमचतुर्भुजं ज्ञेयम् ।


अथ समानान्तरालरेखालक्षणम् ।
या रेखा प्रथमनि:सारितरेखया कदापि न मिलति सा समानान्तरा रेखा बवति ।
या सरला रेखा सैकयैवान्ययुक्ता सती सरला भविष्यति न द्वितीयादिरेखायोगेन दर्शनम् ।


अथ यस्यैकराशे: समाना ये ये राशयस्ते मिथ: सर्वेऽपि समाना: ।
ये राशयो मिथ: समानास्ते समानराशिप्रमाणयोगवियोगाभ्यामपि समाना न भवन्ति ।
ये रासय: समान योगवियोगाभ्यां समाना भवन्ति तेऽपि पूर्व समाना एव सन्ति ।
ये च राशय: समानराशियोगवियोगाभ्यां समाना न भवन्ति तेऽपि पूर्वे समाना न सन्ति ।
ये राशय: एकादिगुणितान्यराशिसमाना भवन्ति ते सर्वे समाना एव ।
य: कोऽपि राशि: स्वखण्डादधिक एवास्तीति प्रसिद्दम् ।
चिह्नं रेखा धरातलं वृत्तं क्षेत्रानि च प्रसोद्धानि सन्ति ।
रेखायां दरातले चिह्नं रेखा च कर्त्तुं शक्यत इति सर्वं प्रसिद्धम् ।
एवं चिह्नादपि रेखा कर्त्तुं शक्यते ।
अथ चिह्नं चिह्नोपरि रेखायाम चान्या समाना रेखा धरातलं स्वसमानधरातले च तिष्ठति ।
रेखाद्वयस्य संपात एकचिह्न एव भवति ।
धरातलद्वयसंपात एकरेखायामेव भवति ।
ये च चिह्ने तयोरुपरि सरलैका रेखा योजयितुं शक्यते ।
या च सरलरेखा सा वर्धयितुं शक्यते ।
चिह्नोपर्यभीष्टरेखाव्यासार्धमितेन वृत्तं कर्त्तुं शक्यते ।
याननत: समकोणास्ते सर्वेऽपि समाना: ।
सरलरेखाद्वयं धरातलं व्याप्तुं न शक्नोति ।
कुटिलरेखाद्वयमथवा कुटिलसरलरेखाद्वयं धरातलमावृणोति ।
यद्रेखाद्वयं समानान्तरं न भवति किन्तु विषमान्तरं भवति तत्र यस्मिन् प्रदेशे बह्दन्तरं भवति तद्दिशि वर्धितयो रेखयोरन्तरमुत्तरोत्तरमधिकमेव भवति यत्र च स्वल्पमन्तरं तद्दिशि वर्धितयो रेखयोरन्तरमुत्तरोत्तरमल्पमेव भवति यावद्रेखाद्वयसंयोगस्तदनन्तरं वर्धिष्णु भवति ।
यत्र कोणशब्दस्तत्र सरलरेखाकृत एव कोणो ज्ञेय: ।
यत्र रेखाशब्दस्तत्र सरलैव रेखा ज्ञेया ।
यत्र च भूमितलशब्दस्तत्र जलसमीकृतमेव भुतलं ज्ञेयम् ।इति परिभाषा ।।

Hits: 321
X

Right Click

No right click