यस्य च त्रयोऽपि न्यूनकोणास्तन् न्यूनकोणत्रिभुजं स्यात् ।

अथ चतुर्भुजम् ।
यस्य बाहुचतुष्ट्यं समानं कोणचतुष्ट्यमपि समानं तच्चतुरस्रं समकोणं समचतुर्भुजं ज्ञेयम् ।

यस्य कोणचतुष्ट्यं समानं सन्मुखबाहुद्वयं च मित: समानं तद्विषमचतुर्भुजम् आयतसंज्ञम् ।

यस्य कोणचतुष्ट्यं विषमं भुजचतुष्ट्यं च समं तद् विषमकोनसमचतुर्भुजम ज्ञेयम् ।

Hits: 270
X

Right Click

No right click