श्रीगणेशाय नम: ।
श्रीलक्ष्मीनृसिंहाय नम: ।।

गणाधिपं सुरार्चितं समस्तामदम नृणाम् ।
प्रशस्तभूतिभूषितं नमामि विघ्नवारणम् ।।१।।

लक्ष्मीनृसिंहचरणाम्बुरुहं सुरेशै-
र्वन्द्यं समस्तजनसेवितरेणुगनधम्।।२।।

वाग्देवतां निखिलमोहतमोपहर्श्री
वन्दे गुरुं गणितशास्त्रविशारदं च ।।३।।

श्रीगोविन्दसमाहृयादिविबुधान् वृन्दाटवीनिर्गतान्
यस्तत्रैव निराकुलं शुचिमनोभाव: स्वभक्त्यानवत् ।

म्लेच्छान् मानसमुन्नतान् स्वतरसा निर्जित्व भूमण्डले
जीयाच्छ्रीजयसिंहदेवनृपति: श्रीराजराजेश्र्वर: ।।४।।

येनेष्टं वाजपेयाद्यैरमहादानानि षोडश ।
दत्तानि द्वजवर्येभ्यो गोग्रामगजवाजिन: ।।५।।

तस्य श्रीजयसिंहस्य तुष्ट्यै रचयति स्फुटम् ।
द्विज: सम्राड् जगन्नाथो रेखागनितमुत्तम् ।।६।।

अपूर्वं विहितं शास्त्रं यत्र कोणावबोधनात् ।
क्षेत्रेषु जायते सम्यग्व्युत्पत्तिर्गणिते यथा ।।७।।

शिल्पशास्त्रमिदम प्रोक्तम ब्रह्मणा विश्र्वकर्मणे ।
पारम्पर्यवसादेतदागतं धरणीतले ।।८।।

तद्विच्छिन्नं महाराजजयसिंहाज्ञया पुन: ।
प्रकाशितं मया सम्यग् गणकानन्दहेतवे ।।९।।
------
१.Alternative text begins the work as follows :-
ओं श्रीगणेशायनम: ।अथोक्लीदशाक्यम रेखागणितम लिख्यते ।
तत्रास्मिन् ग्रन्थे
श्रीगणेशायनम: । श्रीशारदायैनम:। श्रीगुरवे नम: । ओं सिद्धि: ।
गजाननं गणाधिपं सुरासुरार्चितं सदा ।
समस्तभक्तकामदं शिवासुतं सुखप्रदम् ।।१।।
वितण्डचण्डयोगिनीसमाजमध्यवर्तिनम् ।
प्रशस्तभूतिभूषितं नमामि विघ्नवारणम् ।।२।।
लक्ष्मीनृसिंह ---

Hits: 247
X

Right Click

No right click