उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ जरूडध्वज । उत्तिष्ठ कमलाकान्त त्त्रैलोक्यं मङ्गलं कृरू॥२॥

मात स्समस्तजगतां मधुकैटभारेः व्क्षोविहारिणी मनोहरदिव्यरूपे। श्रीस्वामिनि श्रीतजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम्॥३॥

तव सुप्रभातमरवन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले। विदिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदतिते दयानिधे॥४॥

अत्र्यादिसप्तऋष्य स्समुपास्य सन्ध्यां आकाश्सिन्धुकमलानि म्नोहराणि। आदाय पादयुगमर्चयितुं प्रपन्नाः शेषद्रिशेखर विभो तव सुप्रभातम्॥५॥
पञ्चाननाब्बभवषण्मुखवासवाध्याः त्त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति। भाषापतिः पठति दासरशुध्दिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम्॥६॥

ईषत्प्रफुल्लसरसीरुहनारिकेल- पृगद्रुमादिसुमनोहरपालिकानाम्। आवाति मन्दमनिल स्सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम्॥७॥

उन्मीक्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्त्रवशिष्टकदकदलीफलपायसानि। मुक्त्वा सलीलमय केलिशुकाः पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम्॥८॥

तन्त्त्रीप्रकषेमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि। भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखर विभो तव सुप्रभातम् ॥९॥

भुङ्गवली च मकरन्दरसानुविध्द- शङ्कारगीतनिनदै स्सह सेवनाय। निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् ॥१०॥
योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीत्र्धोषाः। रोषात्कालिं विदधते ककुभश्र्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम्॥११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलस्य निजाङ्गलक्ष्म्या। भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखर विभो तव सुप्रभातम्॥१२॥

श्रीमन्नभीष्टवरदाखिललोकबन्दो श्रीश्रीनिवास जगदेकदयैकसिन्धो। श्रीदेवतागृहमुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१३॥

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः। द्वारेवसन्ति वरवेत्रहतोत्तमाङ्गः श्रीवेङ्कटाचलपते तव सुप्रभातम्॥

श्रीशेषशैलगरूडाचलवेक्कटाद्रि- नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम्। आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥
सेवापरा श्शिवसुरेशकृशानुकर्म- रक्षोऽम्बुनाथपवमानघनाधिनाथाः। बध्दाञ्जकिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१६॥

घाटीषु ते विहगराजमृगाधिराज- नागाधिराजगजराजहयाधिराजाः। स्वस्वाधिकारमहिमादिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१७॥

सूर्येन्दुभौमबुधवाक्यपतिकाव्यसौरि -स्वर्भानुकेतुदिविषत्प्रधानाः त्वद्दासदासचरमानधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥८॥

त्वत्पादधूलिभरितस्फुरितोत्तमाज्ञाः स्वर्गापवर्गनिरपेक्षनिजान्तारज्ञाः। कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वग्दोपुराग्रशिखराणि निरिक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः। मर्या मनुष्यभुवने मतिमश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१०॥
श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव ज्गदेकशरण्यमूर्ते। श्रीमन्नन्तगरूडादिभिरर्चिताङ्घ्रे श्रीवेक्कटाचलपते तव सुप्रभातम्॥२१॥

श्रीपद्मनाभ पुरूषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे। श्रीवत्सचिन्ह शरणगतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम॥२२॥

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरूहकुडमललोलदृष्टे। कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्र्वथतपोधन रामचन्द्र। शेषांशराम यदुनन्दन कल्किरूपम् श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२४॥

एलालवङ्गघनसारसुगन्धतीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम्। धृत्वाऽद्य वैदिकशिखामणयःप्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्॥२५॥
भास्वानुदेति विचानि सरोरुहाणि संपूरयन्ति निनदैःककुभो विहङ्गाः। श्रीवैष्णवा स्सत्ततमर्थितङ्गलास्ते धामाश्रायन्ति तव वेङ्कट सुप्रभातम्॥२६॥

ब्रह्मादय स्सुरवरा स्समहर्षयस्ते सन्त स्सनन्दनमुखास्त्वथ योगिवर्याः। धामन्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास् नरवद्यगुणैकसन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२८॥


इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाःप्रतिदिनं पठितुं प्रवृत्ताः। तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसृते॥२९॥

॥इति श्रीनेङ्कटेश सुप्रभातम्॥

Hits: 85