सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥

ऐश्वरस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधः तपसः क्षमा प्रभवितुः धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॥

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम्

अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

अयं निजः परो वेऽति गणना लघुचेतसाम् ॥
उदारचरितानां तु वसुधैव कुटुम्बकम्

अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम्

अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥

आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम्

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥

भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥

यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते

अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः

रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः
क्रियासिधिः सत्त्वे भवति महतां नोपकरणे

सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥

सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम्

सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥

सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः

Hits: 674